|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.182. अध्यायः 182
Mahabharata - Shanti Parva - Chapter Topics
भरद्वाजंप्रति भृगुणा वृक्षादीनामपि भौतिकत्वचैतन्यादिसमर्थनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भरद्वाज उवाच। 12-182-0x(5923)(72307)
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः॥ 12-182-1(72308)
यदाऽसृजत्सहस्राणि भूतानां स महामतिः।
पञ्चानामेव भूतत्वं कथं समुपपद्यते॥ 12-182-2(72309)
भृगुरुवाच। 12-182-3x(5924)
अमितानां महाशब्दो भूतानां याति संभवम्।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते॥ 12-182-3(72310)
चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्॥ 12-182-4(72311)
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः॥ 12-182-5(72312)
भरद्वाज उवाच। 12-182-6x(5925)
पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः॥ 12-182-6(72313)
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः॥ 12-182-7(72314)
न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः॥ 12-182-8(72315)
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्॥ 12-182-9(72316)
भृगुरुवाच। 12-182-10x(5926)
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते॥ 12-182-10(72317)
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते॥ 12-182-11(72318)
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः॥ 12-182-12(72319)
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः॥ 12-182-13(72320)
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः॥ 12-182-14(72321)
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे॥ 12-182-15(72322)
वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्।
तथा पवनसंयुक्तः पादैः पिबति पादपः॥ 12-182-16(72323)
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते॥ 12-182-17(72324)
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते॥ 12-182-18(72325)
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते॥ 12-182-19(72326)
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम्।
इत्येतदिह संघातं शरीरे पृथिवीमयम्॥ 12-182-20(72327)
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः॥ 12-182-21(72328)
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः॥ 12-182-22(72329)
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा॥ 12-182-23(72330)
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा।
गच्छत्यपाने वाक्चैव समानने समः स्थितः॥ 12-182-24(72331)
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्॥ 12-182-25(72332)
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्।
ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः।
`शब्दं शृणोति च तदैवाकाशात्तु शरीरवान्॥ 12-182-26(72333)
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्॥ 12-182-27(72334)
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः॥ 12-182-28(72335)
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः॥ 12-182-29(72336)
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः॥ 12-182-30(72337)
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः॥ 12-182-31(72338)
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते।
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान्॥ 12-182-32(72339)
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः॥ 12-182-33(72340)
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः॥ 12-182-34(72341)
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते॥ 12-182-35(72342)
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्॥ 12-182-36(72343)
षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्॥ 12-182-37(72344)
एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु॥ 12-182-38(72345)
[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च।
यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा।
एतेषामेव सर्वेषां विषये संप्रकीर्तितः॥ 12-182-39(72346)
एवं बहुविधाकारः शब्द आकाशसंभवः।
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह॥] 12-182-40(72347)
अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः॥ 12-182-41(72348)
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता॥ ॥ 12-182-42(72349)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः॥ 182॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-182-1 पञ्चधातव आकाशादयः ये महाभूतसंज्ञाः यैश्च लोका आवृता इति योजना॥ 12-182-2 भूतानां प्राणिनाम्॥ 12-182-4 खंसुषिरम्। अत्र शरीरे द्रवो लोहितादिसंघातः। कठिनं मांसास्थ्यादि॥ 12-182-5 श्रोत्रं खं घ्राणं पृथिवी रसो रसनेन्द्रियं जलं स्पर्शः स्पर्शनेन्द्रियं त्वग्वायुः दृष्टिश्चक्षुरिन्द्रियं तेजः॥ 12-182-9 अप्रमेयत्वादप्रतीयमानत्वात्। 12-182-16 नालेन नलिकया॥ 12-182-18 तेन वृक्षेण। जरयति जरयतः॥ 12-182-21 शरीरिणोऽन्तर्गतोऽग्निस्तेजः क्रोधचक्षुरूष्मजाठररूप इति पञ्चाग्नेयाः॥ 12-182-22 श्रोत्रमिन्द्रियम्। घ्राणं नासान्ध्रे। कोष्ठमन्नादिस्थानम्॥ 12-182-24 व्यायच्छते बलसाध्यमुद्यमं करोति॥ 12-182-25 प्रतिभेदादुरःकण्ठशिरः स्थानभेदात्॥ 12-182-26 भूमेर्भूम्या घ्राणरूपया। अद्भ्य इति रसनेन॥ 12-182-28 पार्थिवः पृथिव्याश्रितो मुख्यो गुणः॥ 12-182-29 ज्योतिः पृथिव्यादिरूपम्। वायुना त्वगिन्द्रियेण। गुणा अप्रधानभूताः एवं जलादावप्येकैको मुख्य इतरेऽप्रधाना इति द्रष्टव्यम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|